नीतिशतकम्, लघु प्रश्नोत्तराणि।
1. नीतिशतकस्य रचक: कः? उत्तरम् - भर्तृहरि:। 2. नीतिशतकस्य अपर नाम किम्? उत्तरम् - शतककाव्यम्। 3. शतकत्रयस्य प्रणेता कः? तानि कानि? उत्तरम् - भर्तृहरि:। तानि यथा - नीतिशतकम्, वैराग्यशतकम् शृङ्गारशतकम् च। 4. नीतिशतकस्य मङ्गलाचारणे कस्य वन्दनां क्रीयते? उत्तरम् - नीतिशतकस्य मङ्गलाचारणे ब्रह्मस्य (चैतन्यस्य) वन्दनां क्रीयते। 5. विक्रमसम्बत् इत्यस्य प्रवर्तकः विक्रमादित्यस्य ज्येष्ठभ्राता कः अस्ति? उत्तरम् - भर्तृहरिः। 6. राजा भर्तृहरेः प्रेमिका का आसीत्? उत्तरम् - पिङ्गला। 7. भर्तृहरेः पिता कः? उत्तरम् - गन्धर्वसेन्। 8. नीतिशतकस्य श्लोकसङ्ख्या कति अस्ति? उत्तरम् - 100. (कतिपयेषु ग्रन्थेषु 111 इति अपि प्राप्रते। ) 10. नीतिशतक कस्मिन् काव्यपरम्परान्तर्गतः अस्ति? उत्तरम् - मुक्तककाव्य परम्परान्तर्गतः अस्ति। 11. यस्मिन् प्रत्येक श्लोकः अथर्दृष्ट्या स्वतन्त्रः भवति सा का काव्यपरम्परा भवति? उत्तरम् - मुक्तककाव्यम्। 12. भर्तृहरिः कस्याः रीत्याः क...