वनेचर-योधिष्ठिरयोः कथोपकथनम्

उत्तरम् - महाकवि भारविविरचिते 'किरातार्जुनीयम्' महाकाव्ये प्रथमसर्गे युधिष्ठिरेण नियुक्त वनेचरः दुर्योधनस्य प्रशासनपद्धति विषयकं वचनं युधिष्ठिराय निवेदयामास। तद्वचनं समाचीन एवं वर्णितमस्ति - वनेचरः युधिष्ठिरम् अवदत् - यत् राज्ञाः नाना कार्येषु नियुक्त गुप्तचरः राजानां कदापि न वञ्चयेत् अतः वनेचरोSपि युधिष्ठिरं वञ्चयितुं न इच्छति। तदीयं वचनं प्रियं अप्रियं वा भवन्तु, तद् युधिष्ठिरेण ज्ञातव्यम् एव यतोहि हितं मनोरमं च वाक्यं जगति एकमेव दूर्लभमेव। अपि च राजा भृत्ययोः सहयोगेन एव राज्ये सर्वविधा उन्नतिः सम्भवति।
    वनेचरः स्वकीयं विनयं प्रकाशयन् उवाच यत् राज्ञव्य़वहारः स्वभावेन एव दुर्बोधं भवति। वनेचरः च अज्ञानञ्च एव युधिष्ठिरस्य महिम्ना असौ दुर्योधनस्य निगुढ़ं नीति मार्गं कथमपि अवगन्तुं समर्थ्यते। युधिष्ठिरं सवोध्य वनेचरः अवदत् हे राजन् दुर्योधनस्य राजसिङ्हासेन उपविष्टोSपि भवतः पराजय आशङ्क्य, अन्यायभावेन जीतं राज्यम् अधुना नीतिद्वारा नेतुं प्रयत्नं करोति। प्रकृत्या प्रवञ्चकोSपि सः दुर्योधनः मनद्वारेण अनुमोदिनां राज्ञः पदवीं प्राप्त कामदिशन्तुं सम्पूर्णभावेन नयति। किञ्च असौ दिवसः यत्नैः च समयं सम्यग् विभज्य नीतिद्वारा स्वकीयं पौरुषं विस्तारयति। दुर्योधनस्य प्रजानुरक्षकता अपि साधियेत् भवति। स हि भृत्यान् प्रियमित्राणि इव मित्राणि आत्मीयमिव अपि च आत्मीयं राज्ञ इव आदरव्य़वहरति। स धर्मोSर्थकामश्च प्रति समदृष्टि सम्पन्नम् आसीत् तस्य समादिनां प्रयोगोSपि अतीव प्रशंसनीयः तथाहि तदीयं सामसदादानयुक्तं भवति। दानं च सत्कारयुक्तं, सत्कारं च गुणकीर्तनसम्पन्नो भवति। परन्तु स दुर्योधनः कदापि लोभक्रोधात् अपि राजधर्मे दण्डं न प्रयोज्यते। स च राजा सेवकेभ्यः वेतनम् उदारभावेन ददाति। दुर्योधनेन सम्यक प्रयुक्तेन उपायेन राज्ये अर्थ सम्पदः अजस्त्राः फलन्ति। तत्र जलसिञ्चने उपायेन कृषकाः अनायासेन एव शस्यानि उत्पादितुं कथ्यन्ते।
    राज्ञदुर्योधनस्य ये सौनिकाः सन्ति तेषां कृते मानम् एव धनं तथापि धनेन सम्यक् अर्चिताः सौनिकाः युद्धे कीर्तीलब्धा दुर्योधनस्य कल्याणं वान्चन्ति। स च दुर्योधनः कदापि क्रोधात् खलु न कदाचित् यौवनयुद्धं दुःशासनं यौवराज्ये अधिष्ठित पुरोहितस्य उपदेशानुसारेण आलस्यं परित्यक्त्वा होमकार्यं करोति। परन्तु आसमुद्रं राज्यं शासनेनाSपि स दुर्योधनः वनवासिनः युधिष्ठिरात् अनवरत् विभेति एव।
    वनेचरः परिशेषे वदति यत् स दुर्योधनः युधिष्ठिरस्य अपकारं कर्तुं एव तत्परो भवति। अत एव युधिष्ठिरमपि समुचितं प्रत्युत्तरं विधेयम्। अन्यथा तेन युधिष्ठिरस्य अपकारो अनिवार्य एव इति एवम् उक्त्वा वनेचरो निर्जगाम इति शम्।



















Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।