प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङकुरात् (भर्तृहरिः, नीतिशतकम्)
प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङकुरात्
समुद्रमपि संतरेत् प्रचलदूर्मिमालाऽऽकुलम् ।
भुजङ्गमपि कोपितं शिरसि पुष्पवद् धारयेत्।
न तु प्रतिनिविष्टमूर्खजनचित्तमारा धयेत् ।।4।।
अन्वयः (Prose Order)- मकरवक्त्दष्ट्रांकुरात् प्रसह्य मणिमुद्धरेत् ।प्रचलदूर्मिमालाकुलं समुद्रमपि संतरेत्, कोपितमपि भुजङ्गं शिरसि पुष्पवद्धारयेत् ।
प्रतिनिविष्टमूर्खजनचित्तं तु न आराधयेत् ॥४॥
नीतिपथः- अथ द्वाभ्यां मूर्खजनचित्तस्य दुराराध्यतामाह-प्रसह्येति।
मकरवक्त्रदंष्टांकुरात् मकरः जलग्राहविशेषस्तस्य नक्रस्य वर्त्रं वदनगडुगरं मुखं वा
तस्मिन् दंष्ट्राणां निशिताग्रदशनविशेषाणामन्तरादति
लग्नं मणिं रत्नं प्रसह्य हठेन दुरूद्धरमपि उद्धरेदुद्धर्त शक्रुयात् । जन इति शेषः ।
प्रचलदूर्मिमालाकुलं प्रचलन्त उक्तिष्ठन्तश्च त ऊर्मयो लहर्यस्तन्मालाभि: पंक्तिभिराकुलं
संकुलम् । उल्लोलकल्लोलोज्जृम्भितमित्यर् थः । समुद्रमपि महासागरमपि क्षुद्रनदीमिव
संतरेत्सम्यक्तरितुं शक्रुयात् । तथा कोपितं सञ्जातकोपमपि भुजङ्गं सर्पमपि । दुर्धरमपीति
भावः । शिरसि पुष्पवद् मूर्ध्नि स्रजमिव धारयेत् शिरसा वोढुं शक्रुयादित्यर्थः । एतत्
सर्वमतिदुष्करं कार्यजातं प्रयत्नवात्ररो यथाकथञ्चित् सम्पादयितुं शक्रुयात् परं
प्रतिनिविष्टमभिनिवेशाक्रान्तम् । मूर्खजनस्य दुर्विदग्धस्य चित्तं नाराधयेत् समाधातुं न
शक्रुयात् । अत्र मण्युद्धरणाद्यसम्बन्धेऽपि तत्सम्बन्धाभिधानादतिशयोक्तिः । पृथ्वीवृत्तम् ।।
तद्यथा-जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरु: इति तल्लक्षणात् ।
संस्कृतसरलार्थ:- मनुष्यः स्वबलेन नक्रस्य दंष्ट्रा्तरालात् लग्नं रत्नं दुरूद्धरमपि
उद्धत्तुं शक्रुयात् । उल्लोलकल्लोलोज्जृम्भितं महार्णवमपि केनचित्लवनसाधनेन
सम्यक्तरितुं शक्रुयात् । संजातकोपमपि सर्प पुष्पमाल्यमिव शिरसि धारयितुं शक्रुयात् ।
एतत् सर्वमतिदुष्करं कार्यकलापं प्रयत्नवात्ररः सम्पादयितुं शक्रुयात् परं साग्रहो यो
मूर्खजनः तस्य चित्तं समाधातुं न पारयेत् ।।४। ॥
हिन्दी- मगर के मुँह की डाढ़ के अग्रभाग से रत्न को चाहे मनुष्य बलपूर्वक
निकाल ले और चाहे उत्तंगतरङ्गों से संकुलित समुद्र को भी पार कर ले और चाहे
क्रोधित सर्प को पुष्पमाला की तरह शिर पर धारण कर ले, परन्तु हठी मूर्ख मनुष्य
के चित को वह संतुष्ट कभी नहीं कर सकता॥४ ॥
English Translation- A man may be able to take a
Jewel out from the teeth of a crocodile and he may also
be able to cross the vast ocean agitated by the rows of
rolling waves, a man may also be able to place an in-
furiated snake like a flower on his head but no body can
be able to please the imperious heart of a fool. (4)
प्रचलदूर्मिमालाकुलं प्रचलन्त उक्तिष्ठन्तश्च त ऊर्मयो लहर्यस्तन्मालाभि: पंक्तिभिराकुलं
संकुलम् । उल्लोलकल्लोलोज्जृम्भितमित्यर्

Comments
Post a Comment
Thanks for your response.