अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः (भर्तृहरिः, नीतिशतकम्)
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।ज्ञानलवदुर्विदग्यं ब्रह्माऽपि तं नरं न रञ्जयति ।। 3 ।।
अन्वयः (Prose Order) - अज्ञ: सुखमाराध्यः विशेषज्ञः सुखतरम् आराध्यते, ज्ञानलवदुर्विदग्धं तन्नरं ब्रह्मापि न रञ्जयति ॥३॥नीतिपथः - श्लोकचतुष्टयेन मूर्खस्य समाधानम् अत्यन्तदुष्करम् इत्याह । अज्ञ इति । न जानाति इति अज्ञः । मूढ इति यावत् । 'अज्ञे मूढयथाजातमूर्खवैधेयबालिशा:' इत्यमरः । ' स सुखं सारल्येनाराध्यः समाधातुं शक्यः । तस्योपदेशमात्रेणैव विस्रम्भसम्भवादिति भाव:। विशेषज्ञो विशेषं गुणावगुणंयोर्भेदं जानातीति विशेषज्ञ: तत्ववेत्ता स ततोऽपि सुखतरमधिकतरेण सारल्येनाराध्य: प्रसादयितुं शक्यते। विद्याबलेन कृत्याकृत्यं विविच्य विद्वांसः विद्वासं शीघ्रमेव प्रसादयितुं शक्नुवन्ति । किन्तु ज्ञानं शास्त्रजन्यसंवित् तस्य लवेन प्राप्तेन लेशमात्रेण दुर्विदग्धं पण्डितंमन्यं तन्नरम्। मूर्खजनमित्यर्थः । ब्रह्मापि कर्तुमकर्तुमन्यथाकर्तुं समर्थः जगत्स्रष्टापि न रञ्जयतिप्रसादयितुं न शक्रोति । रञ्जनसम्बन्धेप्यसंबन्धाभिधा
संस्कृतसरलार्थ: - यो हि किमपि न जानाति स सुखेन आराधयितुं शक्य: । यस्तु विशेषज्ञ: तत्त्ववेत्ता मुर्खापेक्षया अत्यन्तानायासेन आराध्यते । यतः स विद्याबलेन कृत्याकृत्यं विविच्य विद्वांसो विद्वासं शीघ्रमेव प्रसादयितुं शतक्रुवन्ति । किन्तु स्वल्पेनैव ज्ञानेन गर्वितमानसं पण्डितमानिनं नरं पितामहो ब्रह्माऽपि प्रसादयितुं न शक्रोति । तन्मनसः सूक्तिसहस्त्रैरपि समाधानासंभवादिति।।3।।
हिन्दी - जो कुछ न जानता हो, अर्थात् मूर्ख को सरलता से प्रसन्न किया जा सकता है। बहुत जानने वाला अर्थात् विशेषज्ञ को तो नायास प्रसन्न किया जा सकता है। परन्तु ज्ञान के लेशमात्र को पाकर दुर्विंदग्ध हुए मनुष्य को ब्रह्मा भी प्रसन्न नहीं कर सकता, मनुष्य की तो बात ही क्या है॥3॥
English Translation - An idiot can easily be pleased and one who knows much can be pleased with still greater ease. Even the creator cannot satisfy a man who is possessed of only a smattering of knowledge but prides himself on it. (3)
Comments
Post a Comment
Thanks for your response.